|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.269. अध्यायः 269
Mahabharata - Shanti Parva - Chapter Topics
तुलाधारेण जाजलये धर्मरहस्योपदेशः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
जाजलिरुवाच। 12-269-0x(6292)(76025)
यथा प्रवर्तितो धर्मस्तुलां धारयता त्वया।
स्वर्गद्वारं च वत्तिं च भूतानामवरोत्स्यते॥ 12-269-1(76026)
कृष्या ह्यन्नं प्रभवति ततस्त्वमपि जिवसि।
पशुभिश्चौषधीभिश्च मर्त्या जीवन्ति वाणिज॥ 12-269-2(76027)
ततो यज्ञः प्रभवति नास्तिक्यमपि जल्पसि।
न हि वर्तेदयं लोको वार्तामुत्सृज्य केवलाम्॥ 12-269-3(76028)
तुलाधार उवाच। 12-269-4x(6293)
वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः।
न यज्ञं च विनिन्दामि यज्ञवित्तु सुदुर्लभः॥ 12-269-4(76029)
नमो ब्राह्मण यज्ञाय ये च यज्ञविदो जनाः।
स्वयज्ञं ब्राह्मणा हित्वा क्षत्रयज्ञमनुष्ठिताः॥ 12-269-5(76030)
लुब्धैर्वित्तपरैर्ब्रह्मन्नास्तिकैः संप्रवर्तितम्।
वेदवादानभिज्ञानां सत्याभासमिवानृतम्॥ 12-269-6(76031)
इदं देयमिदं देयमिति नान्यच्चिकीर्षति।
अतः स्तैन्यं प्रभवति विकर्माणि च जाजले॥ 12-269-7(76032)
यदेव सुकृतं हव्यं तेन तुष्यन्ति देवताः।
नमस्कारेण हविषा स्वाध्यायैरौषधैस्तथा।
पूजा स्याद्देवतानां हि यथाशास्त्रनिदर्शनम्॥ 12-269-8(76033)
इष्टापूर्तादसाधूनां विदुषां जायते प्रजा।
लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः॥ 12-269-9(76034)
यजमाना यथाऽऽत्मानमृत्विजश्च तथा प्रजाः।
यज्ञात्प्रजा प्रभवति नभसोऽम्भ इवामलम्॥ 12-269-10(76035)
अग्नौ प्रास्ताहुतिर्ब्रह्मन्नादित्यमुपगच्छति।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः॥ 12-269-11(76036)
तस्मात्सुनिष्ठिताः पूर्वे सर्वान्कामांश्च लेभिरे।
अकृष्टपच्या पृथिवी आशीर्भिर्वीररुधोऽभवन्॥ 12-269-12(76037)
न ते यज्ञेष्वात्मसु वा फलं पश्यन्ति किंचन।
शङ्कमानाः फलं यज्ञे ये यजेरन्कथंचन॥ 12-269-13(76038)
जानन्तः सर्वथा साधु लुब्धा वित्तप्रयोजनाः।
स स्म पापकृतां लोकान्गुच्छेदशुभकर्मणा॥ 12-269-14(76039)
प्रमाणमप्रमाणेन यः कुर्यादशुभं नरः।
पापात्मा सोऽकृतप्रज्ञः सदैवेह द्विजोत्तम॥ 12-269-15(76040)
कर्तव्यमिति कर्तव्यं वेत्ति वै ब्राह्मणो भयम्।
ब्रह्मैव वर्तते लोके नैव कर्तव्यतां पुनः॥ 12-269-16(76041)
विगुणं च पुनः कर्म ज्याय इत्यनुशुश्रुम्।
सर्वभूतोपकारश्च फलभावे च संयमः॥ 12-269-17(76042)
सत्ययज्ञा दमयज्ञा अलुब्धाश्चात्मवृत्तयः।
उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः॥ 12-269-18(76043)
क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः।
ब्राह्मं वेदमधीयन्तस्तोषयन्त्यपरानपि॥ 12-269-19(76044)
अखिलं दैवतं सर्वं ब्रह्म ब्रह्मणि संश्रितम्।
तृप्यन्ति तृप्यतो देवास्तृप्ताऽतृप्तस्य जाजले॥ 12-269-20(76045)
यथा सर्वरसैस्तृप्तो नाभिनन्दति किंचन।
तथा प्रज्ञानतृप्तस्य नित्यतृप्तिः सुखोदया॥ 12-269-21(76046)
धर्माधारा धर्मसुखाः कृत्स्नव्यवसितास्तथा।
अस्ति नस्तत्त्वतो भूय इति प्राज्ञस्त्ववेक्षते॥ 12-269-22(76047)
ज्ञानविज्ञानिनः केचित्परं पारं तितीर्षवः।
अतीव पुण्यदं पुण्यं पुण्याभिजनसंहितम्॥ 12-269-23(76048)
यत्र गत्वा न शोचन्ति च च्यवन्ति व्यथन्ति च।
ते तु तद्ब्रह्मणः स्थानं प्राप्नुवन्तीह सात्विकाः॥ 12-269-24(76049)
नैव ते स्वर्गमिच्छन्ति न यजन्ति यशोधनाः।
सतां वर्त्मानुवर्तन्ते यथाबलमहिंसया॥ 12-269-25(76050)
वनस्पतीनोषधीश्च फलमूलानि ते विदुः।
न चैतानृत्विजो लुब्धा याजयन्ति फलार्थिनः॥ 12-269-26(76051)
स्वमेव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर्द्विजाः।
परिनिष्ठितकर्माणाः प्रजानुग्रहकाम्यया॥ 12-269-27(76052)
तस्मात्तानृत्विजो लुब्धा याजयन्त्यशुभान्नरान्।
प्रापयेयुः प्रजाः स्वर्गे स्वधर्माचरणेन वै।
इति मे वर्तते बुद्धिः समा सर्वत्र जाजले॥ 12-269-28(76053)
प्रयुञ्जते येन यज्ञे सदा प्राज्ञा द्विजर्षभाः।
तेन ते देवयानेन पथा यान्ति महामुने॥ 12-269-29(76054)
आवृत्तिस्तस्य चैकस्य नास्त्यावृत्तिर्मनीषिणाः।
उभौ तौ देवयानेन गच्छतो जाजले यथा॥ 12-269-30(76055)
स्वयं चैषामनडुहो युञ्जन्ति च वहन्ति च।
स्वयमुस्राश्च दुह्यन्ते मनःसंकल्पसिद्धिभिः॥ 12-269-31(76056)
स्वयं यूपानुपादाय यजन्ते स्वाप्तदक्षिणाः।
यस्तथा भावितात्मा स्यात्स गामालब्धुमर्हति॥ 12-269-32(76057)
ओषधीभिस्तथा ब्रह्मन्यजेरंस्ते न तादृशाः।
श्रद्धया गां पुरस्कृत्य तदृतं प्रब्रवीमि ते॥ 12-269-33(76058)
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्।
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः॥ 12-269-34(76059)
न श्रावयन्न च यजन्न ददद्ब्राह्मणेषु च।
काम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले।
इदं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात्॥ 12-269-35(76060)
जाजलिरुवाच। 12-269-36x(6294)
[न वै मुनीनां शृणुमः स्म तत्त्वं
पृच्छामि ते वाणिज कष्टमेतत्।
पूर्वेपूर्वे चास्य नावेक्षमाणा
नातः परं तमृषयः स्थापयन्ति॥ 12-269-36(76061)
यस्मिन्नेवात्मतीर्थेन पशवः प्राप्नुयुर्मखम्।]
अथ स्म कर्मणा केन वाणिज प्राप्नुयात्सुखम्।
शंस मे तन्महाप्राज्ञ भृशं वै श्रद्दधामि ते॥ 12-269-37(76062)
तुलाधार उवाच। 12-269-38x(6295)
उत यज्ञा उतायज्ञा मस्वं नार्हन्ति ते क्वचित्।
आज्येन पयसा दध्ना सत्कृत्यामिक्षया त्वचा।
बालैः शृङ्गेण पादेन संभरत्येव गौर्मखम्॥ 12-269-38(76063)
पत्नीव्रतेन विधिना प्रकरोति नियोजयन्।
इष्टं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात्॥ 12-269-39(76064)
पुरोडाशो हि सर्वेषां पशूनां मेध्य उच्यते।
सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः।
जाजले तीर्थमात्मेव मा स्म देशातिथिर्भव॥ 12-269-40(76065)
एतानीदृशकान्धर्मानाचरन्निह जाजले।
कारणैर्धर्ममन्विच्छन्स लोकानाप्नुते शुभान्॥ 12-269-41(76066)
भीष्म उवाच। 12-269-42x(6296)
एतानीदृशकान्धर्मांस्तुलाधारः प्रशंसति।
उपपत्त्याऽभिसंपन्नान्नित्यं सद्भिर्निषेवितान्॥ ॥ 12-269-42(76067)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनसप्तत्यधिकद्विशततमोऽध्यायः॥ 269॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-269-3 नास्तिक्यं हिंसात्मकत्वेन यज्ञनिन्दा॥ 12-269-9 विगुणा जायते प्रजेति झ. पाठः॥ 12-269-25 यजन्ते चाविहिंसयेति झ. पाठः॥ 12-269-38 अशक्तानां तु बालैर्गोपुच्छे पितृतर्पणादिना। शृङ्गेण गोशृङ्गेणाभिषेकादिना। पाद्देनेति पादरजसेत्यर्थः। एतेषां गोस्पर्शनादीनां च सद्यः पापनाशकत्वं परलोकप्रदत्वं च स्मृत्युक्तं दर्शितम्॥ 12-269-41 ईदृशकानहिंस्रान्। कारणैरर्थित्वसमर्थत्वविद्वत्त्वतारतम्यैः॥ 12-269-42 उपपत्त्या युत्तया॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|